||Sundarakanda ||

|| Sarga 40||( Only Slokas in Devanagari) )

Sanskrit Sloka text in Devanagari, Gujarati, Kannada, Telugu , and English

||om tat sat||

सुंदरकांड.
अथ चत्वारिंशस्सर्गः

श्रुत्वातु वचनं तस्य वायुसूनोर्महात्मनः।
उवाच आत्महितं वाक्यं सीता सुरसुतोपमा॥1||

स॥ वायुसूनुः महत्मनः तस्य आत्महितं वाक्यं श्रुत्वा सीता सुरसुतोपमा उवाच तु ॥

Hearing those words of benefit from the great soul, the son of Vayu, Sita who is like daughter of Suras replied.

त्वां दृष्ट्वाप्रियवक्तारं संप्र हृष्यामि वानर।
अर्थ संजातसस्येव वृष्टिं प्राप्य वसुंधरा॥2||
यथा तं पुरुषव्याघ्रं गात्रैः शोकाभिकर्शितैः।
संस्पृशेयं सकामाहं तथा कुरु दयां मयि॥3||

स॥ त्वां प्रियवक्तारं दृष्ट्वा अर्थसंजात सस्यः वसुंधरा वृष्टिं प्राप्य इव संप्रहृष्यामि॥स कामं अहं शोककर्शिभितैः गात्रैः तं पुरुषव्याघ्रं यथा संस्पृशेयं तथा मयि दयाम् कुरु ।

' Oh Vanara ! Just as earth feels happy when half grown paddy receives rain , I feel happy after seeing ( hearing) you speaking pleasing words. Act in such a manner that I, the passionate lady emaciated with suffering, can touch the tiger among men with my limbs . Be kind to me'.

अभिज्ञानं च रामस्य दद्या हरिगणोत्तम।
क्षिप्तामिषिकां काकस्य कोपात् एकाक्षि शातनीम्॥4||
मनश्शिलायाः तिलको गंडपार्श्वे निवेशितः।
त्वया प्रणष्टे तिलके तं किल स्मर्तुमर्हसि॥5||
स वीर्यवान् कथं सीतां हृतां स मनुमन्यसे।
वसंतीं रक्षसां मध्ये महेंद्र वरुणोपमः॥6||

स॥ हरिगणोत्तम कोपात् क्षिप्तं काकस्य एकाक्षिशातनीम् इषिकां रामस्य अभिज्ञानं दद्या च ॥तिलके प्रणष्टे त्वया मनश्शिलयाः तिलकः गण्डपार्श्वे निवेशितः किल तं स्मर्तुं अर्हसि॥वीर्यवान् महेंद्रवरुणोफमः सः हृतां राक्षसां मध्ये वसंतीं सीतां कथं समनुमन्यसे ॥

'Oh Best leader of Vanaras ! Give Rama the token of remembrance where the blade of grass released in anger blinded the crows one eye. When Tilaka got erased you painted a Tilaka with grind stone nearby ! Oh Rama you should remember that. Valiant and comparable to Varuna and Indra, how can Rama stand the Rakshasas who seized Sita and in whose midst Sita is living'.

एष चूडामणिर्दिव्यो मया सु परिरक्षितः।
एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वां इवानघ॥7||
एष निर्यातितः श्रीमान् मया ते वारिसंभवः।
अतः परं न शक्ष्यामि जीवितुं शोकलालसा॥8||

स॥ अनघ दिव्यः एषः चूडामणीः मया सुपरिरक्षितः । व्यसनेएतं दृष्ट्वा त्वां इव प्रहृष्यामि॥श्रीमान् वारिसंभवः एषः निर्यातितः शोकलालसा अतः परं जीवितुं न शक्ष्यामि ॥

' Oh Sinless one ! This wonderful Chudamani has been safeguarded by me. In distress seeing this I was happy as though I was seeing you. Oh Glorious one ! Returning this which is born of sea, now engrossed in sorrow it is not possible for me to live'.

असह्यानि च दुःखानि वाचश्च हृदयच्छिदः।
राक्षसीनां सुघोराणां त्वत्कृते मर्षयाम्यहम्॥9||
धारयिष्यामि मासं तु जीवितं शत्रु सूदन।
ऊर्ध्वं मासान् नजीविष्ये त्वया हीना नृपात्मज॥10||
घोरोराक्षसराजोऽयं दृष्टिश्च न सुखामयि।
त्वां च श्रुत्वा विपद्यंतं न जीवेयमहं क्षणम्॥11||

स॥ अहं असह्यानि दुःखानि सुघोराणां राक्षसीनां हृदयच्छिदः वाचश्च त्वत् कृते अहं मर्षयामि॥ नृपात्मज शत्रुसूदन जीवितं मासं धारयिष्यामि । त्वया हीना मासान् ऊर्ध्वं न जीविष्ये ॥राक्षसराजः घोरः। मयि दृष्टिः सुखा न ।त्वं विपद्यंतं श्रुत्वा क्षणं न जीवेयं॥

' I am tolerating this unbearable grief, the dreadful heart piercing uttering of these dreadful Rakshasas for your sake. Oh Subduer of enemies, Oh Son of the king ! I am bearing this life for one month. Without you I will not live after this month. The king of Rakshasa is dreadful. His look at me is immoral. I do not wish to live even for a moment after hearing the adversities you faced'.

वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम्।
अथाब्रवीन् महातेजा हनुमान् मारुतात्मजः॥12||

स॥ महातेजा हनुमान् मारुतात्मजः वैदेह्याः करुणं साश्रुभाषितम् वचनं श्रुत्वा अथ अब्रवीत् ॥

Hanuman , the brilliant son of wind god having heard Vaidehi's pitiable words spoken with tears then spoke.

त्वच्छोकविमुखो रामो देवि सत्येन ते शपे।
रामे दुःखाभिभूते तु लक्ष्मणः परितप्यते॥13||
कथंचित् भवती दृष्टा न कालः परिशोचितुम्।
इमं मुहूर्तं दुःखानां अंतं द्रक्ष्यसि भामिनि॥14||
तावुभौ पुरुषव्याघ्रौ राजपुत्त्रावरिंदमौ।
त्वद्दर्शन कृतोत्साहौ लंकां भस्मीकरिष्यतः॥15||

स॥ देवि त्वत् रामः शोकविमुखः। सत्येन ते शपे। रामे दुःखाभिभूते लक्ष्मनः परितप्यते॥भामिनि कथंचित् भवती दृष्टा । परिशोचितुं कालः न। इअमं मुहूर्तं दूखानां अंतं द्रक्ष्यसि ॥तौ उभौ राजपुत्राः अरिंदमौ पुरुषव्याघ्रौ त्वत् दर्शन कृतोत्साहौ लंकां भस्मी करिष्यतः॥

' Oh Devi ! Out of grief Rama is averse to everything. I swear by the truth. With Rama in deep sorrow Lakshmana too is immersed in sorrow. Oh Lady ! Somehow you have been located. This is not time to sorrow. This moment is the end of all your sorrows. The two tigers among men , crushers of enemies , desirous of seeing you , will reduce Lanka to ashes'.

हत्वातु समरे क्रूरं रावणं सहबांधवम्।
राघवौ त्वा विशालाक्षि स्वां पुरीं प्रापयिष्यतः॥16||
यत्तु रामो विजानीयात् अभिज्ञानमनिंदिते।
प्रीतिसंजननं तस्य भूयस्त्वं दातुमर्हसि॥17||

स॥ विशालाक्षि सह बांधवं क्रूरं रावणं समरे हत्वा राघवौ त्वां स्वां पुरीं प्रति प्रापयिष्यतः॥अनिंदिते रामः यत् अभिज्ञानं विजानीयात् तस्य प्रीति संजननम् भूयः त्वं दातुं अर्हसि॥

' Oh Wide eyed lady ! Killing Ravana along with his relatives, Raghava will take you back to his city. Oh Blameless lady ! You may give one more token of remembrance which will make him happy'.

साऽब्रवी द्दत्तमेवेति मयाऽभिज्ञान मुत्तमम्।
एतदेव हि रामस्य दृष्ट्वा मत्केशभूषणम्॥18||
श्रद्धेयं हनुमान्वाक्यं तव वीर भविष्यति।

स॥ मया उत्तमं अभिज्ञानं दत्तमेव इति सा अब्रवीत् । वीर हनुमान् एतत् मत्केशभूषणं दृष्ट्वा तव वाक्यं रामस्य श्रद्धेयं भविष्यति ॥

She said, 'I have given the best remembrance. Oh Valiant Hanuman seeing this jewel for my hair Rama will be attentive to all your words'.

स तं मणिवरं गृह्य श्रीमान् प्लवगसत्तमः॥19||
प्रणम्य शिरसा देवीं गमनायोपचक्रमे।

स॥ श्रीमान् सः प्लवगसत्तमः मणीवरं गृह्य देवीं शिरसा प्रणम्य गमनाय उपचक्रमे॥

The illustrious Vanara held the ornament and bowing his head offered salutations and got ready to depart.

तमुत्पात कृतोत्साहम् अवेक्ष्य हरिपुंगवम्॥20||
वर्थमानं महावेगं उवाच जनकात्मजा।
अश्रुपूर्णमुखी दीना भाष्पगद्गदया गिरा॥21||

स॥ जनकात्मजा उत्पातकृतोत्साहं वर्धमानं महावेगं तं हरिपुंगवं आवेक्ष्य अश्रुपूर्णमुखी दीना भाष्पगद्गदया गिरा उवाच॥

The daughter of Janaka seeing the risen up, eager to leap, quickly growing Hanuman, spoke with eyes filled with tears.

हनुमान् सिंह संकाशौ भ्रातरौ रामलक्ष्मणौ।
सुग्रीवं च सहामात्यं सर्वान् ब्रूया ह्यनामयम्॥22||
यथा च महाबाहुः मां तारयति राघवः।
अस्माद्दुःखांबु संरोधात् त्वं समाधातु मर्हसि॥23||
इमं च तीव्रं मम शोकवेगं रक्षोभि रेभिः परिभर्त्सनं च।
ब्रूयास्तु रामस्य गतस्समीपं शिवश्च ते sध्वास्तु सहरिप्रवीर॥24||

स॥ हनुमान् भ्रातरौ सिंहसंकाशौ रामलक्ष्मणौ सहामात्यं सुग्रीवं च सर्वान् अनामयं ब्रूयाः॥महाबलः सः राघवः अस्मात् दुःखांबुसंरोधात् (मां) यथा तारयति त्वं समाधातुं अर्हसि॥हरिप्रवीर रामस्य समीपं गतः मम् इमं तीव्रं शोकवेगं एभिः रक्षोभिः परिभर्त्स्यनं ब्रूयाः । ते अध्वा शिवः अस्तु ॥

' Hanuman convey my well-being to the brother Rama and Lakshmana who are like lions, also to Sugriva along with his ministers too. You are capable of making efforts to see the mighty Raghava help me in crossing this ocean of sorrows. Best of Vanaras ! After going near Rama tell him about this intense sorrow and the threats of the Rakshasas. May your journey be happy'.

स राजपुत्त्र्या प्रतिवेदितार्थः कपिः कृतार्थः परिहृष्टचेताः।
अल्पावशेषं प्रसमीक्ष्य कार्यं दिशं ह्युदीचीं मनसा जगाम॥25||

स॥ स कपिः राजपुत्र्या प्रतिवेदितार्थः कृतार्थः परिहृष्टचेतसः कार्यं अल्पावशेषं प्रसमीक्ष्य उदीचीं दिशं मनसा जगाम॥

Having accomplished the task, and delighted at heart the Vanara understood the message of the princess. Considering the small task left over he mentally reached the northern shores.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे चत्वारिंशस्सर्गः ॥

Thus ends the Sarga forty of Sundarakanda in Ramayana the first ever poem composed in Sanskrit by the first poet sage Valmiki.

||om tat sat||